श्री गणेश चतुर्थी पूजन विधि
गणेश जी की मूर्ति सामने रखकर और श्रद्धा पूर्वक उस पर पुष्प छोड़ें यदि मूर्ति न हो तो सुपारी पर मौली लपेटकर चावल पर स्थापित करें और आवाहन करें। आज गणेश चतुर्थी है, अतएब निम्न प्रकार पूजन आदि कीजिये-
आवाहन
गजाननं भूतगणादिसेवितम कपित्थजम्बू फल चारू भक्षणं।
उमासुतम शोक विनाशकारकं नमामि विघ्नेश्वर पादपंकजम् ।।
आगच्छ भगवन्देव स्थाने चात्र स्थिरो भव।
यावत्पूजा करिष्यामि तावत्वं सन्निधौ भव:।
प्रतिष्ठा (प्राण प्रतिष्ठा) करें –
अस्यैप्राणाः प्रतिष्ठन्तु अस्यै प्राणा क्षरन्तु च।
अस्यै देवत्वमर्चार्यम मामेहती च कश्चन:।
आसन
रम्यं सुशोभनं दिव्यं सर्व सौख्यंकर शुभम्।
आसनं च मया दत्तं गृहाण परमेश्वरः।
पाद्य
उष्णोदकं निर्मलं च सर्व सौगंध्य संयुतम्।
पादप्रक्षालनार्थाय दत्तं ते प्रतिगह्यताम्।
अर्घ्य
अर्घ्य गृहाण देवेश गंध पुष्पाक्षतै:।
करुणाम कुरु में देव गृहणार्ध्य नमोस्तुते।
आचमन
सर्वतीर्थ समायुक्तं सुगन्धि निर्मलं जलं।
आचम्यताम् मया दत्तं गृहीत्वा परमेश्वरः।
स्नान
गंगा सरस्वती रेवा पयोष्णी नर्मदाजलै:।
स्नापितोSसी मया देव तथा शांति कुरुश्वमे।
दूध
कामधेनुसमुत्पन्नं सर्वेषां जीवन: परम्।
पावनं यज्ञ हेतुश्च पयः स्नानार्थं समर्पितम्।
दही
पयस्तु समुदभूतं मधुराम्लं शक्तिप्रभम्।
ध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्।
घृत
नवनीत समुत्पन्नं सर्व संतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ।
शहद
तरु पुष्प समुदभूतं सुस्वादु मधुरं मधुः।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।
शर्करा
इक्षुसार समुदभूता शंकरा पुष्टिकारकम्।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम्।
पंचामृत
पयोदधिघृतं चैव मधु च शर्करायुतं।
पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्।
शुद्धोदक
मंदाकिन्यास्त यद्वारि सर्वपापहरं शुभम।
तदिधं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्।
वस्त्र
सर्वभूषाधिके सौम्ये लोक लज्जा निवारणे।
मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम्।
उपवस्त्र
सुजातो ज्योतिषा सह्शर्म वरुथमासदत्सव:।
वासोअस्तेविश्वरूपवं संव्ययस्वविभावसो।
यज्ञोपवीत
नवभिस्तन्तुभिर्युक्त त्रिगुण देवतामयम्।
उपवीतं मया दत्तं गृहाणं परमेश्वर:।
मधुपर्क
कस्य कन्स्येनपिहितो दधिमध्वा ज्यसन्युतः।
मधुपर्को मयानीतः पूजार्थ् प्रतिगृह्यताम्।
गन्ध (चंदन अबीर गुलाल)
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्। विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यतां।
रक्तचन्दन
रक्त चन्दन समिश्रं पारिजातसमुदभवम्।
मया दत्तं गृहाणाश चन्दनं गन्धसंयुतम्।
रोली
कुमकुमं कामनादिव्यं कामनाकामसंभवाम ।
कुम्कुमेनार्चितो देव गृहाण परमेश्वर्:।
सिन्दूर
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्।
अक्षत
अक्षताश्च सुरश्रेष्ठं कुम्कुमाक्तः सुशोभितः।
माया निवेदिता भक्त्या गृहाण परमेश्वरः।
पुष्प
पुष्पैर्नानाविधेर्दिव्यै: कुमुदैरथ चम्पकै:।
पूजार्थं नीयते तुभ्यं पुष्पाणि प्रतिगृह्यताम्।
पुष्प माला
माल्यादीनि सुगन्धिनी मालत्यादीनि वै प्रभो।
मयानीतानि पुष्पाणि गृहाण परमेश्वर:।
बेल पत्र
त्रिशाखैर्विल्वपत्रैश्च अच्छिद्रै: कोमलै: शुभै:।
तव पूजां करिष्यामि गृहाण परमेश्वर:।
दूर्वा
त्वं दूर्वेSमृतजन्मानि वन्दितासि सुरैरपि।
सौभाग्यं संततिं देहि सर्वकार्यकरो भव।
दूर्वाकुरान्
दूर्वाकुरान् सुहरिता नमृतान मंगलप्रदाम्।
आनीतांस्तव पूजार्थं गृहाण गणनायक:।
शमीपत्र
शमी शमय मे पापं शमी लाहित कष्टका।
धारिण्यर्जुनवाणानां रामस्य प्रियवादिनी।
अबीर गुलाल
अबीरं च गुलालं च चोवा चन्दन्मेव च।
अबीरेणार्चितो देव: अत: शान्ति प्रयच्छमे।
आभूषण
अलंकारान्महा दव्यान्नानारत्न विनिर्मितान्।
गृहाण देवदेवेश प्रसीद परमेश्वर:।
सुगंधित द्रव्य
चम्पकाशोक वकुल मालती मीगरादिभि:।
वासितं स्निग्धता हेतु तेलं चारु प्रगृह्यताम्।
धूप
वनस्पतिरसोद्भूतो गन्धाढ्यो गंध उत्तम:।
आघ्रेय सर्वदेवानां धूपोSयं प्रतिगृह्यताम्।
दीप
आज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्।
धूप दीप दिखाने के बाद अपने हाथ धो लें।
नैवेद्य
शर्कराघृत संयुक्तं मधुरं स्वादुचोत्तमम्।
उपहार समायुक्तं नैवेद्यं प्रतिगृह्यताम्।
मध्येपानीय
अतितृप्तिकरं तोयं सुगन्धि च पिबेच्छ्या।
त्वयि तृप्ते जगतृप्तं नित्यतृप्ते महात्मनि।
ऋतुफल
नारिकेलफलं जम्बूफलं नारंगमुत्तमम्।
कुष्माण्डं पुरतो भक्त्या कल्पितं प्रतिगृह्यताम्।
आचमन
गंगाजलं समानीतां सुवर्णकलशे स्थिता।
आचमम्यतां सुरश्रेष्ठ शुद्धमाचमनीयकम्।
अखंड ऋतुफल
इदं फलं मयादेव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।
ताम्बूल पूंगीफलं
पूंगीफलम महादिव्यं नागवल्लीदलैर्युतम्।
एलादि चूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम्।
दक्षिणा
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसो:।
अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे।
चन्द्रादित्यो च धरणी विद्युद्ग्निस्तथैव च।
त्वमेव सर्वज्योतिषं आर्तिक्यं प्रतिगृह्यताम्।
नानासुगन्धिपुष्पाणि यथाकालोदभवानि च।
पुष्पांजलिर्मया दत्तो गृहाण परमेश्वर:।
प्रार्थना
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक:।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्।
अनया पूजया श्री गणपति: देवता प्रीयतां न मम। हाथ जोड़ कर प्रणाम करें।”
*आचार्य हर्षमणि बहुगुणा